Giáo trình Phạn văn I—Bài tập—Bài thứ 21

Từ VLOS
Bước tới: chuyển hướng, tìm kiếm

 Giáo trình Phạn văn I - Liên tự - Phái sinh từ - Thân phụ âm bất quy tắc - Số từ - Từ vị - Bảng tra thời thái và hình thức của động từ theo tiếp vĩ âm - Bảng tra gốc động từ theo thân

 

Ngữ pháp: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

 

Bài tập: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

Từ vị[sửa]

Động từ[sửa]

  • अर्च् (10) अर्चयति → tôn kính
  • प्रतिबुध् (1) प्रतिबोधति → tỉnh thức
  • प्रजन् (4) प्रजायते → sinh, đẻ
  • भृ (1) भरति → nuôi dưỡng
  • भ्रंश् (1) भ्रंशते → rớt, mất
  • रम् (1) रमते → vui thích, thưởng thức
  • लुप् (6) लुम्पति → phá huỷ, cướp đoạt
  • विस्मृ (1) विस्मरति → quên
  • व्यय् (1) व्ययति → phung phí, chi phí

Danh từ[sửa]

  • अकीर्ति (f.) → không vinh dự, nhục nhã
  • अद्रि (m.) → dãy núi
  • अस्त्र (n.) → nghệ thuật bắn cung, cung, tên
  • आगमन (n.) → sự đến
  • आजीवन (n.) → kế sinh nhai, phương tiện sinh sống
  • आरोग्य (n.) → sức khoẻ
  • कुटी (f.) → túp lều
  • क्रोड (m.) → cái ngực, chỗ bộng bên trong
  • धनिक (m.) → người giàu, phú ông
  • बिडाल (m.) → con mèo
  • मूल (n.) → gốc, nguồn gốc
  • रूप (n.) → thân, sắc, vẻ đẹp
  • शक्ति (f.) → lực
  • शाप (m.) → lời nguyền
  • शावक (m.) → con nhỏ của loài thú
  • सेना (f.) → quân đội
  • स्वरूप (n.) → bản chất, bản tính, tính chất

Phó từ/Hình dung từ[sửa]

  • अनन्तर (adj.) → kế đến
  • धनिक (adj.) → giàu
  • मौल (adj.) → nguyên là, bản chất là
  • अग्रतः → trước (postp. đi với genitive)
  • अचिरेण → mau, không lâu sau
  • अद्यापि → vẫn còn
  • चिरम् → lâu

Bài văn/Luyện tập[sửa]

Bài tập về thời vị lai[sửa]

1. युद्धे जेष्याम इति नृपश्चिन्तयति। 2. प्रभाते नृपः सेनया सह प्रस्थास्यति। 3. नृपतिः क्षत्रियान्‌ युद्धाय नेस्यति। 4. तत्र जयाय शत्रुभिः सह योत्स्यते। 5. युद्धे बहवः क्षत्रिया मारिष्यन्ति। 6. शत्रवो नगरस्य गृहाणि प्रवेक्ष्यन्ति धनानि च लोप्स्यन्ति च। 7. ततः पश्चादग्निना गृहाणि धक्ष्यन्ति। 8. तदा वयं अस्माकं नगरे स्थातुं न समर्थाः। 9. अद्रिं गत्वा ततोऽन्यं नगरं द्रक्ष्यामः। 10. तन्नगरं वयं गमिष्यामः। 11. तत्र गत्वा किं करिष्यसि। 12. तत्र नवे गृहे वत्स्यामः। 13. तस्मिन्‌ नगरे नवानि मित्राणि लप्स्यसे। 14. किं तत्रापि मां स्मरिष्यसि। 15. तत्र त्वां न विस्मरिष्यामि। 16. यदि तद् ग्राममगमिष्यं तर्हि मम मित्रमद्रक्ष्यम्‌। 17. यदि शत्रवोऽजेष्यन्‌ तर्हि बहून्‌ क्षत्रियानमारयिष्यन्‌। 18. यदि क्षत्रियः शत्रूणाम्‌ नगरं प्रावेक्ष्यत्‌ तर्हि सोऽमारिष्यत्‌। 19. यदि बालो जनकस्य वचनमाकर्णयिष्यत्‌ तर्हि न स दुःखमभविष्यत्‌।

“Mộng ban ngày của Bà-la-môn nghèo”[sửa]

1. कस्मिंश्चिद् ग्राम एको दरिद्रो ब्राह्मणः प्रतिवसति स्म। 2. दिवसे ग्रामस्य मार्गेषु भिक्षामयाचत। 3. अनुदिनं तेन द्वे रूपके लब्धे। 4. एकं रूपकं प्रतिदिनं तेन भोजने व्ययितम्‌। 5. अन्यम्‌ रूपकं प्रतिदिनं तेन रक्षितम्‌। 6. एकदा शयने प्रतिबुध्य ब्राह्मणेनैवं चिन्तितम्‌। 7. यदि प्रतिदिनमेकं रूपकं रक्षिष्यामि तर्हि मम बहु धनं भविष्यति। 8. तेन धनेन धेनुं लप्स्ये प्रतिदिनं च क्षीरं पास्यामि। 9. तदा मम सेवको भविष्यति। स धेन्वै तृणमानेष्यति। 10. स मां सेविष्यते मह्यं च पक्ष्यति। 11. दरिद्रा नरा मद्धनं लप्स्यन्ते। 12. धनिकस्य कस्यचिद् ब्राह्मणस्य गृहं गमिष्यामि तस्य च कन्यां परिणेष्यामि। 13. तस्यां कन्यायां बहवः पुत्रा जनिष्यन्ते। 14. ते जनकं जननीं चार्चयिष्यन्ति। 15. दिवसे मित्रैः सहाक्षैर्देविष्यामि। 16. पुत्रानाश्रमं प्रेषयिष्यामि। 17. पाठशालायां ते सम्यक्‌ पठिष्यन्ति। 18. तत्र शास्त्राण्यस्त्रं च शिक्षिष्यन्ते। 19. पश्चात्‌ पुत्रा मां भरिष्यन्ति गोपायिष्यन्ति च। 20. आरोग्यं चिरं च जीवनमनुभविष्यामि। 21. देवस्य पूजया हृदये शान्तिं वेत्स्यामीति।

“Trí giả và chuột con”[sửa]

1. कस्मिंश्चिद् वने कश्चिद् मुनिर्वसति स्म। 2. स तत्र स्वाश्रमे तपस्यां करोति स्म। 3. एकदा स स्वकुट्या अग्रतः कट उपविश्य समीपे कस्यचित्‌ काकस्य मुखाद्भ्रष्टं किंचिद् मूषकस्य शावकमपश्यत्‌। 4. स कृपालुर्मुनिस्तं शावकं स्वीकृत्य स्वाश्रमेऽपालयत्‌। 5. एकदा मुनेराश्रमस्य समीपमागतेन केनचिद् बिडालेन दृष्टः स मूषकोऽमृग्यत। 6. तं बिडालं दृष्ट्वा स मूषको मुनिं प्रति धावित्वा तस्य क्रोडेऽप्लवत। 7. तस्य भयस्य कारणं बुद्ध्वा मुनिना चिन्तितम्‌। 8. यदि एतं मूषकं बिडालं करिष्यामि तर्हि स मूषकोऽद्य प्रभृति बिडालान्न शङ्किष्यत इति। 9. एतं चिन्तयित्वा मुनिस्तं मूषकं बिडालमकरोत्‌। 10. एकदा कश्चित्‌ कुक्कुर आश्रमस्य समीपमागच्छत्‌। 11. मुनिना कृतो बिडालः कुक्कुरस्य भयात्‌ पुनर्मुनेः क्रोडं धावितः। 12. तदा तेन मुनिना स बिडालः कुक्कुरः कृतः। 13. प्रतिदिनं स कुक्कुरो यथाकामं वने सर्वत्र भ्रान्तः। 14. एकदा स वने कंचिद् व्याघ्रं दृष्ट्वा सत्वरं वनान्मुनेराश्रमं धावित्वा मुनेः समीपमागच्छत्‌। 15. कुक्कुरस्य भयस्य कारणं बुद्ध्वा मुनिरवदत्‌। 16. नास्ति तव भयस्य कारणम्‌। त्वमपि व्याघ्रो भवेः। 17. अधुना त्वां व्याघ्रं करिष्यामीति। 18. मुनेः प्रसादेन स कुक्कुरो व्याघ्रोऽभवत्‌। 19. किंत्वद्यापि मुनिना स व्याघ्रो मूषक इव दृष्टः। 20. यदा यदा स मुनिर्वने कुत्राप्यगच्छत्‌ तदा तदा स व्याघ्रस्तमन्वगच्छत्‌। 21. वने मुनिं व्याघ्रं च दृष्ट्वा जना अकथयन्‌। तेन मुनिना स्वशक्त्या मूषकात्‌ स व्याघ्रः कृत इति। 22. एवं जनैर्भाषितानि वचनान्याकर्ण्य स व्याघ्रोऽतीव दुःखितोऽभवत्‌। 23. सोऽचिन्तयत्‌। यावद् मुनिर्जीवति तावत्‌ सर्वे जना मम स्वरूपस्य कथां कथयन्ति। 24. ते मम शरीरस्य मूलं न विस्मरिष्यन्ति। 25. एवं ममाकीर्तिर्भविष्यति। 26. यावत्‌ स मुनिर्जीविष्यति तावज्जना मम मौलं रूपं बोधिष्यन्ति। 27. यद्यहं तं मुनिं खादामि तर्हि कोऽपि मम मौलं रूपं न बोधिष्यतीति। 28. एवं चिन्तयित्वा मुनिं खादितुं स तस्य समीपमगच्छत्‌। 29. यदा मुनिना स व्याघ्रो दृष्टस्तदा सद्यस्तेन व्याघ्रस्यागमनस्य कारणं बुद्धम्‌। 30. सोऽचिन्तयत्‌। मया मूषको व्याघ्रोऽक्रियत। 31. अधुना व्याघ्रो मां खादितुमागच्छतीति। 32. दूरान्मुनिरवदत्‌ त्वं पुनर्मूषको भवेति। 33. सद्यो मुनेर्वचनेन स व्याघ्रः पुनर्मूषकोऽभवत्‌॥

Liên kết đến đây

Xem thêm liên kết đến trang này.