Giáo trình Phạn văn I—Bài tập—Bài thứ 27

Từ VLOS
Bước tới: chuyển hướng, tìm kiếm

 Giáo trình Phạn văn I - Liên tự - Phái sinh từ - Thân phụ âm bất quy tắc - Số từ - Từ vị - Bảng tra thời thái và hình thức của động từ theo tiếp vĩ âm - Bảng tra gốc động từ theo thân

 

Ngữ pháp: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

 

Bài tập: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

Từ vị[sửa]

Động từ[sửa]

  • उद्-जीव् (1) उज्जीवति → sống dậy
  • उपस्था (1) उपतिष्ठति → có mặt
  • जीव् (10) जीवयति → làm cho sống
  • ज्वल् (10) ज्वालयति → đốt lửa, nhóm lửa
  • पा (10) पाययति → cho uống, đưa cho uống
  • प्रत्यागम् (1) प्रत्यागच्छति → trở về
  • प्रयुज् (7) → dùng, sử dụng
  • भस्मसात् कृ (8) भस्मात्करोति → làm thành tro
  • मन्त्र (denominative = 10) मन्त्रयति → tham vấn
  • मिश्र (denominative = 10) मिश्रयति → trộn
  • लक्ष् (10) लक्षयति → ghi chú, đánh dấu
  • स्फुट् (10) स्फोटयति → nổ tung, xẻ ra

Danh từ[sửa]

  • अध्यापन (n.) → sự giảng dạy
  • अञ्जलि (m.) → cử chỉ chắp tay lại chào (hiệp chưởng)
  • अमृत (n.) → nước bất tử, cam lộ
  • आशङ्का (f.) → lo âu, lo sợ
  • उदर (n.) → bụng
  • उपवचन (n.) → vườn nhỏ, vườn cây
  • कच (m.) → tên riêng, con của Bṛhaspati
  • कुतीर (m.) → vì sao, tai sao, từ đâu?
  • देवयानी (f.) → tên riêng nữ giới
  • पर्ण (m.) → lá cây
  • पुनरुज्जीवन (n.) → làm sống, tiếp hơi
  • पुर (n.) → thành phố
  • प्रतियुद्ध (m.) → ứng đáp những hành động thù nghịch
  • प्रयोग (n.) → sử dụng, cách sử dụng
  • प्रीति (f.) → vui vẻ, cảm tình
  • बृहस्पति (m.) → tên một vị thần
  • भगिनी (f.) → em gái
  • भीति (f.) → sợ, sự sợ hãi
  • मद्य (n.) → rượu, chất làm say
  • शुक्र (m.) → tên khác của Soma, tên của một thiên thần
  • सैनिक (m.) → người lính = yodha

Phó từ/Nghi vấn phân từ/Số từ[sửa]

  • अमर → bất tử
  • उपकारिन् → sẵn lòng giúp đỡ
  • एकाकिन् → một mình, đơn độc
  • तत्पर → hoàn toàn tập trung vào đó (đi với loc.)
  • बुद्धिमत् → khôn, có trí
  • योग्य → thích hợp, tương thích, có khả năng
  • शक्य → có khả năng, có thể
  • अत्यन्तम् → rất, cực kì
  • केवलम् → một mình, chỉ có, toàn vẹn
  • भृशम् → rất, mãnh liệt
  • सोत्कण्ठम् → mong mỏi, khát khao

Bài văn/Luyện tập[sửa]

“Thuật làm người chết sống lại”[sửa]

1. पुरा देवानामसुराणां च मध्ये सदा युद्धं बभूव। 2. असुरा बलवन्त आसन्‌। 3. किंतु देवानाममृतमासीत्‌। 4. ते तत्‌ पपुरमराश्च बभूवुः। 5. तस्मादसुराः कदापि तान्‌ मारयितुं न समर्थाः। 6. देवा असुरान्‌ मारयन्ति स्म। 7. किंत्वसुरा उज्जीविताः पुनश्च देवैः सह युद्धं चक्रुः। 8. तत्‌ कथं समभवत्। 9. असुराणां गुरुः शुक्राचार्यो नामासीत्‌। 10. तस्य मृतानां पुनरुज्जीवनस्य विद्यासीत्‌। 11. स मन्त्रं पठित्वा मृतान्‌ पुनर्जीवयामास। 12. सा विद्या केवलं शुक्राचार्यस्यासीन्न तु देवानां न च तेषां गुरोर्बृहस्पतेः। 13. तथापि देवान्‌ मारयितुमसुरा न समर्था आसन्। प्रतियुद्धे कथमपि देवानां सैनिकेषु केचिन्‌ मम्रुः। 14. तद् दृष्ट्वा देवानां मनसि भीतिरुत्पन्ना। 15. ते मृतानां पुनरुज्जीवनस्य विद्यां बोद्धुमीषुः। 16. किंतु कः शुक्राचार्यं गत्वा तां विद्यां पृच्छेत्। 17. मन्त्रयित्वा सर्वे देवा इमं निश्चयं चक्रुः। 18. तदर्थं देवानां गुरोः पुत्रः कचो नाम योग्यः। 19. सोऽत्यन्तं बुद्धिमानुपकारी च। 20. स शुक्राचार्यस्याश्रम उषित्वा तस्मान्‌ मृतानां पुनरुज्जीवनस्य विद्यां लब्ध्वा शीघ्रं देवानां लोकं प्रत्यागत्य तां विद्यामस्माञ्छिक्षयेत् । 21. एवं देवाश्चिन्तयामासुः। 22. कचोऽसुराणां पुरं जगाम। 23. असुराणां राजा तेषां गुरवे शुक्राचार्याय कस्मिंश्चिद् रमणीय उपवने शान्तमाश्रमं रचयामास। 24. तत्र पर्णैः कृते कुटीरे शुक्राचार्यः स्वपुत्र्या देवयान्या सह न्युवास। 25. कचो गुरोर्द्वार उपस्थायाञ्जलिं चकार। 26. शुक्राचार्यस्तस्य सत्कारं कृत्वा तं पप्रच्छ। 27. कस्त्वम् कुत आगतः किमर्थमत्रागत इति। 28. कचः स्वागमनस्य सत्यं कारणं न कथयामास। 29. किंतु गुरुस्तस्यागमनस्य कारणं बुबोध। 30. अस्मै मृतानां पुनरुज्जीवनस्य विद्यां न दास्यामीति मनसि निर्णीय स तस्मै विद्याया अध्यापनायानुमतिं प्रददौ। 31. आश्रमे कचस्याध्यापनमारब्धम्‌। 32. कचो बह्वीर्विद्याः शिशिक्षे। 33. आश्रमस्य कार्येष्वपि तत्पर आसीत्‌। 34. एवं कचो गुरोः प्रीतिं लेभे। 35. कचे गुरोः प्रीतिं लक्षयामासुरसुराः। 36. तत इयमाशङ्का तेषां मनस्युत्पन्ना। 37. यदि गुरुस्तं पुनरुज्जीवनस्य विद्यां शिक्षयेत्‌ तर्हि किं भवेदिति। 38. एकदा कचो वन एकाकी बभ्राम। 39. तस्मिन्‌ क्षणेऽसुरास्तं मारयामासुः। 40. यदा सायङ्कालं यावत्‌ कचो गुरोर्गृहं न जगाम तदा देवयानी भृशं चक्रन्द। 41. तस्याः पिता मा क्रन्देति भाषित्वा मृतानां पुनरुज्जीवनस्य मन्त्रं पपाठ। 42. कचश्च पुनरुज्जीवनमालभ्य तत्र प्रत्यागच्छत्‌। 43. तद् दृष्ट्वा पुनरसुराः कचममारयन्‌। 44. पुनरपि पुत्र्या दुःखाच्छुक्राचार्यः कचं जीवयामास। 45. एकदासुराः कचं पुनर् मारयित्वा ज्वालयित्वा तस्यास्थीनि भस्मसात्‌ कृत्वा मद्ये मिश्रयित्वा तद् गुरुं पाययामासुः। 46. यदा शुक्राचार्यो मन्त्रं पपाठ तदा तस्योदरे कचो जीवनं लेभे। 47. तदनुभूय शुक्राचार्योऽचिन्तयत्‌। 48. यदा ममोदरे स्थितः कचः पुनर् जीवनं लब्ध्वा ममोदरं स्फोटयिष्यति तदाहं मरिष्यामि। 49. तस्मात्‌ शीघ्रं मृतानां पुनरुज्जीवनस्य विद्यां तं शिक्षयामि। 50. स पुनर् जीवनं लब्ध्वा मां जीवयेदिति। 51. गुरुस्तमवदत्। वत्स अहं त्वां मृतानां पुनरुज्जीवनस्य विद्यां शिक्षयामि। 52. त्वं ममोदरं स्फोटयित्वा बहिरागच्छ मां च मन्त्रं पठित्वा जीवयेति। 53. कचो मन्त्रं शिक्षित्वा गुरुमजीवयत्‌। 54. पश्चात्‌ स देवानां लोकं प्रस्थातुमारेभे। 55. किंतु देवयानी तेन सह विवाहमियेष। 56. कचोऽभाषत्। अहं तव पितुरुदराज्जातः। 57. अतोऽहं तव भ्राता त्वं च मम भगिनी। 58. आवयोर्विवाहः कथं शक्य इति कचो देवयानीं प्रत्यवदत्‌। 59. क्रुद्धा देवयानी शापमुवाद त्वं कदापि पुनरुज्जीवनस्य विद्यां प्रयोक्तुं समर्थो न भवेरिति। 60. कचः स्वर्गं प्रस्थाय तां विद्यां देवानशिक्षयत्। ते च तस्याः प्रयोगं चक्रुः।

Liên kết đến đây

Xem thêm liên kết đến trang này.