Giáo trình Phạn văn I—Bài tập—Bài thứ 24
Giáo trình Phạn văn I - Liên tự - Phái sinh từ - Thân phụ âm bất quy tắc - Số từ - Từ vị - Bảng tra thời thái và hình thức của động từ theo tiếp vĩ âm - Bảng tra gốc động từ theo thân |
||||||||
|
Ngữ
pháp:
01
-
02
-
03
-
04
-
05
-
06
-
07
-
08
-
09
-
10
-
11
-
12
-
13
-
14
-
15
-
16
-
17
-
18
-
19 |
|||||||
|
Bài
tập:
01
-
02
-
03
-
04
-
05
-
06
-
07
-
08
-
09
-
10
-
11
-
12
-
13
-
14
-
15
-
16
-
17
-
18
-
19 |
Mục lục
Từ vị[sửa]
Động từ[sửa]
- अवमुच् (6) अवमुञ्चते → cởi, tháo (quần áo, nữ trang)
- आश्रि (1) आश्रयते → quy y, nương tựa
- उद्-कृष् (1) उत्कर्षति → kéo ra, kéo lên
- दा (3) ददाति → đưa (passive “dīyate”, được dùng thay dạng passive của yam “đưa, trao”)
- निमज्ज् (1) निमज्जति → lặn xuống, đi sâu vào, chìm
- निरूप् (10) निरूपयति → nghiên cứu, tìm ra
- निः-क्रम् (1) निष्क्रामति → đi ra
- परा-धाव् (1) पराधावति → chạy mất
- वि-आ-पद् (10) व्यापादयति → giết hại
Danh từ[sửa]
- अण्ड (n.) → trứng
- अधिपति (m.) → người đứng đầu (của một… bộ, cục, chùa)
- अनशन (n.) → không ăn, nhịn ăn
- अपत्य (n.) → con, hậu bối
- आभरण (n.) → trang sức, nữ trang
- कण्ठ (m.) → cái cổ
- कोटर (n.) → bộng cây
- कोष्ठ (m.) → kho chứa
- गोप (m.) → kẻ chăn bò
- चञ्चु (f.) → mỏ chim
- नीड (m.) → cái tổ, ổ
- पङ्क (m.) → bùn, vũng lầy
- पथिक (m.) → du khách
- पान्थ (m.) → du khách
- भद्र (m.) → kẻ gian, kẻ lừa đảo
- रति (f.) → tham dục, tham ái
- रतिसंबन्ध (m.) → mối quan hệ tình ái
- संशय (m.) → nghi, nghi ngờ
- शठ (m.) → kẻ lừa người
- शय्या (f.) → giường
- सुहृद् (m.) → bạn
Phó từ/hình dung từ[sửa]
- असमर्थ → không thể, thiếu khả năng
- एतावत् → lớn như thế, rộng như thế, nhiều như thế…
- दुर्गत → nghèo nàn, yếu kém
- धनवत् → giàu
- धार्निक → có đức, hợp lí
- प्रबल → cường độ mạnh
- महत् → lớn
- विश्वस्त → tin tưởng (ppp của वि-श्वस्)
- विषण्ण → đau buồn
- लुब्ध → tham lam (ppp của लुभ्)
- अन्ततः → cuồi cùng, chung cuộc…
- शनैः → chậm
Bài văn/Luyện tập[sửa]
“Bà vợ của người chăn bò”[sửa]
1. कस्मिंश्चिद् ग्रामे कश्चिद् गोपो वसति स्म। 2. दिवसे रात्रौ च गोपः क्षेत्रे स्थितः। 3. रात्रौ क्षेत्रे धेनूररक्षत्। 4. तस्य भार्या प्रतिदिनमेकका गृह आसीत्। 5. तस्याः कामः प्रबलः। 6. ततो गोपस्य भार्याया ग्रामस्याधिपतौ रतिसंबन्धेऽभवत्। 7. यतस्तस्याः कामोऽतीव प्रबलस्ततोऽधिपतेः पुत्रेऽपि रतिसंबन्ध आसीत्। 8. एकदा सा शय्यायामधिपतेः पुत्रेण सह रतिमन्वभवत्। 9. ततोऽधिपतिः स्वयं तस्या गृहमागतः। 10. सद्यो गोपस्य भार्या तस्य पुत्रं कोष्ठेऽगोपयत्। 11. पश्चादधिपतिना सा रतिमन्वभवत्। 12. अन्ततः क्षेत्राद्गोपो गृहं प्रत्यागतः। 13. यदा भार्या गोपं मार्गेऽपश्यत् तदाधिपतिमभाषत। 14. अधिपते दण्डमादाय क्रोधेन गृहादपगच्छेति। 15. अधिपतिः सत्वरं गृहान्निरगच्छत्। 16. यदा गोपो गृहं प्राविशत् तदा स्वभार्यामपृच्छत्। 17. सोऽधिपतिरस्माकं गृहं कस्मादागत इति। 18. भार्याभ्यभाषत स स्वपुत्रायाक्रुध्यत्। 19. पुत्रं ताडयामीत्यवदत्। 20. तस्मात् तस्य पुत्रोऽस्माकं गृहमाश्रयत। 21. तेन हेतुनाहं तस्य पुत्रं कोष्ठेऽगोपयम्। 22. स्वपुत्रमन्विष्टोऽधिपतिस्तमत्र नाविन्दत्। 23. तस्मात् क्रुद्धः स गृहादपागच्छत्। 24. ततो भार्या पुत्रं कोष्ठादानीय गोपायादर्शयत्।
“Vợ chồng quạ và con rắn”[sửa]
1. अस्ति कस्मिंश्चिद् वने कश्चिन् महान् वृक्षः। 2. तत्र कश्चित् काकः काचित् काकी च प्रतिवसतः स्म। 3. तस्य वृक्षस्य कोटरे कश्चित् सर्पोऽपि वसति स्म। 4. काक्याः प्रसवस्य काले स सर्पो वृक्षस्य कोटरान्निष्क्रम्य वृक्षम् आरुह्य काक्या अण्डानि भक्षितवान्। 5. यदा यदा काक्याः प्रसवस्य कालोऽभवत् तदा तदा स सर्पोऽण्डानि खादितवान्। 6. तस्मात् ताभ्यां काकाभ्यामतीव दुःखमन्वभूयत। 7. आवयोरपत्यानां रक्षायै किं कर्तव्यमिति तौ चिन्तितवन्तौ। 8. तयोः किंचित् प्रियं मित्रं शृगाल आसीत्। 9. तौ तं शृगालमुपगम्य कंचिदुपायं पृष्टवन्तौ। 10. तौ कथितवन्तौ हे सुहृद् एष दुष्टः सर्पो वृक्षस्य कोटरान्निर्गत्य नीडे स्थितान्यावयोरपत्यानि भक्षयति। 11. तेषां रक्षार्थं कश्चिदुपायस्त्वया कथ्यतामिति। 12. स शृगालोऽवदत्। एतस्मिन् विषये युवां विषण्णौ मा भवतम्। 13. नूनं स लुब्धः सर्पः केनचिदुपायेन विना युवाभ्यां न व्यापाद्येत। 14. काक कस्यचिद् धनवतः पुरुषस्य गृहं गच्छ। 15. तत्र धनिकस्याभरणं हृत्वा तस्य सर्पस्य कोटरे प्रक्षिप। 16. तदनु धनिकस्य जना आभरणस्य ग्रहणाय तस्य सर्पस्य वधं करिष्यन्ति। 17. एवं युवांअपत्यानि रक्षेतमिति। 18. तदाकर्ण्य काकः काकी चोड्डीनौ। 19. ततः काकी नगरस्य समीपं डीनवती तत्र च कस्मिंश्चिद् वृक्षे निषण्णा। 20. नगरस्य समीपे किंचित् सरोऽस्ति। 21. तस्मिन् क्षणे तस्य नगरस्य नृपतेः पुत्री सखीभिः सह तस्मिन् सरसि स्नातुमागच्छत्। 22. सा स्वाभरणानि सरसस्तटेऽवमुक्तवती। 23. तद् दृष्टवती काक्येकमाभरणं चञ्च्वा धारयित्वा स्वनीडं प्रस्थिता। 24. यदा नृपतेः पुत्री तदपश्यत् तदा सा सत्वरं नृपस्य योधानाहूय तस्याभरणस्य ग्रहणाय प्रैषयत्। 25. काकी स्वनीडमागम्य तत्र तदाभरणं सर्पस्य कोटरे निक्षिप्तवती। 26. नृपस्य योधास्तं वृक्षमागच्छन्। 27. यदा ते कोटरे काक्या हृतस्याभरणस्य समीपे तं सर्पमपश्यंस्तदा तस्य वधं कृतवन्तः। 28. पश्चात् काकौ स्वापत्यानि रक्षित्वा सुखेन न्यवसताम्।
“Du khách tham lam và cọp”[sửa]
1. आसीत् पुरा कश्चिल्लुब्धः पथिकः। 2. सोऽश्वमारुह्य धनस्य लाभाय नगरान्नगरं ग्रामाच्च ग्रामं गच्छति स्म। 3. एकदा स किंचिद् वनं प्रविष्टवान्। 4. तस्य मध्ये कश्चन ह्रद आसीत्। 5. पिपासया पीडितमश्वं दृष्ट्वा जलस्य लाभाय स पथिकस्तं ह्रदमुपागतः। 6. स ह्रदस्य मध्ये स्थितं कंचिद् वृद्धं व्याघ्रं दृष्टवान्। 7. व्याघ्रस्य कण्ठे काचित् सुवर्णा मालावर्तत। 8. यदा स व्याघ्रस्तं पथिकं ह्रदस्य तीरेऽपश्यत् तदा सोऽवदत्। 9. भो पान्थ मम सुवर्णां मालां पश्य। सा त्वया लभ्यताम्। 10. तां मालां तुभ्यं प्रयच्छामीति। 11. एवं कथितवतो व्याघ्रस्य वचनमाकर्ण्य स लुब्धः पान्थश्चिन्तितवान्। 12. सुवर्णस्य लाभाय सर्वत्र भ्रमामि। 13. किंतु सुवर्णं कुत्रापि नाविन्द्यत मया। 14. अधुना सुवर्णं लभेय। किमहं संशयेन विना तत् सुवर्णं लभेय। 15. पूर्वं तन्निरूपयामीति। 16. ततः स व्याघ्रमुदितवान्। 17. कथं त्वयि विश्वासो मम भवेदिति। 18. व्याघ्रः प्रत्यभाषत। हे पान्थ आकर्णय। 19. अहं पूर्वमतीव दुष्ट आसम्। 20. मया बहवः पशवो मानुषाश्च व्यापादिताः। 21. एकदा तु केनचिद् धार्मिकेणाहमुपदिष्टः। 22. तस्मादुपदेशादिदानीं मोक्षायानशनं करोमि दानं च प्रयच्छामि। 23. अहं वृद्धोऽस्मि किंचिच्च खादितुं न समर्थः। 24. कथं तव मयि न विश्वासोऽस्ति। 25. मम चैतावाँलोभो नास्ति। 26. पुण्यायैतां सुवर्णां मालां कस्मैचिद् दातुमिच्छामि। 27. मया शास्त्राण्यधिगतानि। त्वं चातीव दुर्गतः। 28. तस्मादेतां मालां तुभ्यं प्रयच्छामि। 29. तदेतस्मिन् सरसि प्रविश्य सुवर्णां मालां धारयेति। 30. तदाकर्ण्य व्याघ्रस्य वचने विश्वस्तः स पान्थो लोभादश्वादवरुह्य सरसो जले प्रविष्टवान्। 31. तत्र पङ्क आसीत्। 32. सद्यः स पङ्के न्यमज्जन्निर्गन्तुं चासमर्थोऽभवत्। 33. पङ्के पतितं पान्थं दृष्ट्वा व्याघ्रोऽवदत्। 34. पङ्के पतितोऽसि। नास्ति भयस्य कारणम्। 35. अहमागम्य त्वां पङ्काद् उत्करिष्यामीति। 36. एवमुदित्वा व्याघ्रः शनैः शनैस्तं पान्थमुपगम्य तं मारयित्वा खादितवान्। 37. तस्मात् साधु कथ्यते। यः संशयं नारोहति स शठान् न पश्यति। 38. यदा संशयमारुह्य जीवति तदा भद्रान् पश्यति। 39. योऽतीव लुब्धोऽस्ति स विनश्यति। 40. यदा नरो लोभेन विना जीवति तदा नूनं चिरं जीविष्यति।
Liên kết đến đây
- Giáo trình Phạn văn I
- Giáo trình Phạn văn I—Ngữ pháp—Bài thứ 01
- Giáo trình Phạn văn I—Ngữ pháp—Bài thứ 02
- Giáo trình Phạn văn I—Bài tập—Bài thứ 01
- Giáo trình Phạn văn I—Bài tập—Bài thứ 02
- Giáo trình Phạn văn I—Ngữ pháp—Bài thứ 03
- Giáo trình Phạn văn I—Bài tập—Bài thứ 03
- Giáo trình Phạn văn I/Từ vị
- Giáo trình Phạn văn I/Liên tự
- Giáo trình Phạn văn I/Số từ
- Xem thêm liên kết đến trang này.