Giáo trình Phạn văn I—Bài tập—Bài thứ 29

Từ VLOS
Bước tới: chuyển hướng, tìm kiếm

 Giáo trình Phạn văn I - Liên tự - Phái sinh từ - Thân phụ âm bất quy tắc - Số từ - Từ vị - Bảng tra thời thái và hình thức của động từ theo tiếp vĩ âm - Bảng tra gốc động từ theo thân

 

Ngữ pháp: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

 

Bài tập: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

Từ vị[sửa]

Động từ[sửa]

  • गण् (10) गणयति → đếm, tính
  • निःकृष् (1) निःकर्षति → kéo ra, lôi ra
  • प्रतिवृ (10) प्रतिवारयति → giữ lại
  • मुद् (1) मोदते → vui
  • विनश् (4) विनश्यति → tan rã, biến mất
  • वृ (10) वरयति → chọn, chọn lựa; cầu hôn
  • सम्वृध् (1) सम्वर्धते → trưởng thành
  • सम्-आ-ह्वे (1) समाह्वयति → gọi tụ lại, triệu tập

Danh từ[sửa]

  • अङ्गुष्ठ (m.) → ngón tay cái
  • अन्वेषण (m.) → sự tìm kiếm
  • अपहरण (n.) → sự chiếm đoạt, lấy đi
  • अश्वपति (m.) → tên một vị vua
  • उत्सङ्ग (m.) → chỗ hai chân tréo khi ngồi xếp bằng
  • उपवास (m.) → nhịn đói không ăn
  • और्ध्वदेहिक (n.) → lễ cúng tế cho người chết
  • चक्षुस् (n.) → ánh sáng mắt, con mắt
  • चतुष्टय (n.) → số bốn
  • जीव (m.) → sự sống
  • देह (m.) → thân thể
  • द्युमत्सेन (m.) → tên vua
  • नारद (m.) → tên của một Ṛṣi
  • पार्श्व (n.) → bên, một phía
  • प्रजा (f.) → hậu thế, hậu bối (प्रजार्थे vì hậu bối mà…)
  • प्रदान (n.) → đưa (quà để kết hôn)
  • प्रमाद (m.) → lỗi lầm, không chú ý
  • मद्र (m., plural) → tên của một chủng tộc
  • मात्रा (f.) → kích thước, bề rộng
  • वरण (n.) → chọn lựa (chồng)
  • वेदना (f.) → đau đớn, sự tuyên truyền
  • व्रत (n.) → lời nguyện, lời thề
  • शाल्व (m, Pl) → tên của một chủng tộc (ở Jaipur)
  • श्वशुर (m.) → bố chồng
  • संतुष्टि (f.) → sự hài lòng
  • सत्यवत् (m.) → tên riêng, con trai của vua Dyumatsena
  • सावित्री (f.) → tên con gái, tên của một bài ca, tên của một nữ thần

Phó từ/Nghi vấn phân từ/Số từ[sửa]

  • अप्रज → không con
  • अन्त्य → cuối
  • ईप्सित → được muốn
  • क्षीण → kiệt lực
  • क्षिणायुस् → hấp hối sắp chết
  • गुणवत् → có đức
  • तेजस्विन् → sáng rực
  • -वासिन् → sống, trú
  • वृत → được chọn
  • शत → 100
  • सहस्र → 1000
  • तृतीयम् → thứ ba
  • द्वितीयम् → thứ hai
  • नित्यशः → luôn luôn
  • परम् → sau đó
  • प्रथमम् → thứ nhất, đầu tiên
  • संवत्सरेण → một năm nữa
  • सकृद् → một lần, khi xưa
Lưu ý: Thật danh từ pati (m.) “người chồng” có cách biến hoá bất quy tắc. Instr. sing. patyā, dat. sing. patye, gen. sing. patyuḥ, abl. sing. patyuḥ, loc. sing. patyau. Phần còn lại hợp quy tắc như agni (m.)

Bài văn/Luyện tập[sửa]

“सावित्री”[sửa]

1. आसीन्मद्रेषु धार्मिको नृपतिरश्वपतिर्नाम। 2. अश्वपतिरप्रजः। स प्रजार्थे शतसहस्रवारं सावित्रीसूक्तं पठित्वैतेन महाव्रतेन दीर्घकालमतिष्ठत्। 3. अथ देवीसावित्रीसंतुष्ट्या तस्य भार्यायामेका कन्याजायत। 4. प्रसन्नेनाश्वपतिना तस्याः कन्यायाः सावित्रीति नाम कृतम्। 5. परं तस्याः कन्यायास्तेजसा प्रतिवारितेषु राजपुत्रेषु न कश्चित् तामवरयत्। 6. ततो मन्त्रिणमाहूय नृपतिरादिष्टवान् (ppa của आदिश्) मत्कन्यया सह सर्वदेशेषु यात्रां कृत्वा पत्युरन्वेषणं कुर्विति। 7. मन्त्रिणा सह कृतयात्रा पुनः प्रत्यागम्य सावित्र्यश्वपतिमेवमभाषत। 8. सर्वाणि तीर्थानि सर्वानाश्रमांश्च गत्वा शाल्वेषु द्युमत्सेनस्य नृपतेः पुत्रः सत्यवान् मया पतिरिति वृतः। 9. यदा सत्यवाञ्छिशुरासीत् तदा विनष्टचक्षुषो द्युमत्सेनस्य समीपवासी कश्चिन्नृपतिस्तस्य राज्यं हृतवान्। 10. तदा हृतराज्यो द्युमत्सेनः स्वपुत्रेण सह महारण्यं गतः। तत्र तेन तपः कृतम्। 11. एतस्मिंस्तपोवने तस्य पुत्रः समवर्धत। 12. सावित्र्या वरणमाकर्ण्य सभायां संनिहितेन मुनिना नारदेनैवमुदितम्। 13. यत् सावित्र्या कृतं स महान् प्रमाद इति। 14. ततोऽश्वपतिरुदितवान्। भवान् किं वदति। तेजस्वी बुद्धिमांश्च राजपुत्रः स सत्यवानिति। 15. नारदः प्रत्यभाषत। किंतु तस्यैको दोषोऽस्ति। अद्यप्रभृति संवत्सरेण सत्यवान् क्षीणायुर्मरिष्यति। 16. सकृद् वृतं पतिं त्यक्त्वा द्वितीयं वरयितुं न शक्यत इति। 17. तदाश्वपतिः समाहूतसर्वब्राह्मणः कन्यया सह महारण्यं प्रातिष्टत्। 18. द्युमत्सेनाश्रमं गत्वा कन्याप्रदानं कृत्वा सुखेन स्वभवनं प्रत्यागच्छत्। 19. सत्यवान् तां कन्यां लब्ध्वा गुणवद्भार्यायाममोदत। ईप्सितं पतिं लब्ध्वा सावित्र्यप्यमोदत। 20. दिवसान् गणितवत्याः सावित्र्या हृदये नारदवाचो नित्यशोऽवर्तन्त। 21. एकदा सावित्र्या मनसि दृष्टं सत्यवान् चतुर्दिवसेन मरिष्यतीति। 22. ततः सा त्रिरात्रमुपवासं कृत्वा व्रतं तस्थौ। 23. चतुर्थदिवसे यदा सत्यवान् काष्ठं कर्तितुं परशुं स्कन्धे धृत्वा प्रातिष्ठत् तदा सावित्री तं बभाषे। 24. अद्याहमपि त्वया सह वनं गच्छामीति। श्रान्तबलः सत्यवान् वनमेकाकी मा गच्छत्विति सा चिन्तयामास। 25. त्वं यदि मया सहागच्छसि तर्हि प्रथमं मम मातापितरावामन्त्रयस्वेति सत्यवानवदत्। 26. एवं कृत्वा सावित्री पत्या सहागच्छत्। 27. वने सत्यवान् काष्ठं कर्तित्वा श्रान्तः। तस्य शिरसि वेदना जाता। 28. पतिं दुर्बलशरीरं दृष्ट्वा सावित्री भूमावुपविश्य पत्युः शिर उत्सङ्गेऽधारयत्। 29. ततः सा सत्यवतः पार्श्वे स्थितं सूर्यतेजसं पुरुषमैक्षत। 30. सोऽभाषत। अहं यमः। तव पत्युरायुषोऽपहरणायात्रागत इति। 31. ततो यमः सत्यवतो देहात् तस्य जीवमङ्गुष्ठमात्रां निरकर्षत् प्रातिष्ठच्च। 32. यदा सावित्री यममन्वगच्छत् तदा सोऽवदत्। सावित्रि! प्रत्यागच्छ। तव पत्युरौर्ध्वदेहिकं त्वया कर्तव्यमिति। 33. सावित्री तु प्रत्यभाषत। यत्र मे पतिर्नीतो यत्र वा स स्वयं गच्छति तत्राहं गच्छामीति। 34. तदाकर्ण्य तस्याः पतिभक्त्या प्रसन्नो यमोऽवदत्। अत्रागच्छ। संतुष्टोऽस्मि तव वचनेन। वरचतुष्टयं वरयस्वेति। 35. एवं सावित्र्या वरत्रयं वृतम्। 36. प्रथमं मम श्वशुरश्चक्षुर्लभतामिति। द्वितीयं स स्वराज्यं पुनर्लभतामिति। 37. तृतीयं मम जनकोऽश्वपतिरपुत्रः शतपुत्राल्लभतामिति। 38. अथ चतुर्थवरेण मयि पुत्रशतं जायतामिति सावित्र्यवदत्। 39. ततः सावित्र्या वचनेन संतुष्टो यमोऽन्त्यं वरं दातुमैच्छत्। 40. तदा सावित्र्यवदत्। मयि पत्या विना पुत्रशतं कथं जनिष्यति। अतः सत्यवाञ्जीवत्विति। 41. यमस्तस्य जीवितं प्रतिदाय सावित्रीमवदत्। 42. पत्या सह सहस्रवर्षाणि जीवेरिति। 43. तदा सत्यवान् प्रबुध्य सावित्र्या सह मातापितरौ प्रतिजगाम।

Ghi chú: 7. … कृतयात्रा पुनः… सावित्री… = Bahuv. “सावित्री, người đã thực hiện một cuộc hành hương” (सावित्री người mà một cuộc hành hương đã được thực hiện); 9. … विनष्टचक्षुषो द्युमत्सेनस्य… = Bahuv. “…của द्युमत्सेन, người đã mất mắt/có mắt bị huỷ…”; 10. … हृतराज्यो द्युमत्सेनः… = Bahuv. “… द्युमत्सेन, người đã bị đoạt vương quốc…”; 17. … अश्वपतिः समाहूतसर्वब्राह्मणः… = Bahuv. “… अश्वपति, bởi người ấy mà tất cả những bà-la-môn được gọi lại…”; 24. … श्रान्तबलः सत्यवान्…= Bahuv. “सत्यवान्, người đã kiệt lực…”; 28. पतिं दुर्बलशरीरं… = Bahuv. “người chồng, người có thân yếu/mà thân của người ấy yếu”; 29. … सूर्यतेजसं पुरुषम्… = Bahuv. “một người mà hào quang sáng rực như mặt trời…”; 31. … जीवमङ्गुष्ठमात्राम्… = Bahuv. “linh hồn mà độ lớn của nó như ngón cái…”; 37. … अश्वपतिरपुत्रः… = Bahuv. “अश्वपति, người không có con trai”

Liên kết đến đây

Xem thêm liên kết đến trang này.