Giáo trình Phạn văn I—Bài tập—Bài thứ 26

Từ VLOS
Bước tới: chuyển hướng, tìm kiếm

 Giáo trình Phạn văn I - Liên tự - Phái sinh từ - Thân phụ âm bất quy tắc - Số từ - Từ vị - Bảng tra thời thái và hình thức của động từ theo tiếp vĩ âm - Bảng tra gốc động từ theo thân

 

Ngữ pháp: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

 

Bài tập: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

Từ vị[sửa]

Động từ[sửa]

  • अभि-अस् (4) अभ्यस्यति → học
  • उद्-पत् (1) उत्पतति → bay lên, xuất hiện, hình thành
  • उपगम् (1) उपगच्छति → đến gần, đạt được, thành đạt
  • निसेव् (1) निषेवते → thăm viếng
  • परि-भ्रम् (1/4) परिभ्रमति/ परिभ्राम्यति → đi lòng vòng
  • प्रतिज्ञा (9) प्रतिजानीति/प्रतिजानीते → hứa
  • विक्रुश् (1) विक्रोशति → la to, hét lớn
  • स्मि (1) स्मयते → mỉm cười, đỏ mặt

Danh từ[sửa]

  • अद्वैत (n.) → bất nhị, sự không hai
  • अनुमति (f.) → sự cho phép
  • आगमन (n.) → sự đến, hội tụ
  • आचार्य (m.) → thầy dạy đạo, đạo sư
  • कर्तृ (m.) → người làm
  • केरल (m.) → tên của dân sống ở bờ biển Malabar
  • क्रोश (m.) → tiếng la, tiếng hét
  • गृहिन् (m.) → có nhà, ông chủ nhà
  • चरण (m.) → cái chân
  • जेतृ (m.) → người thắng
  • तपस्विन् (m.) → người khổ tu, người khổ hạnh
  • दातृ (m.) → người đưa, thí chủ
  • दुहितृ (f.) → con gái
  • धन्विन् (m.) → người bắn cung
  • नक्र (m.) → cá sấu
  • नप्तृ (m.) → cháu nội/ngoại
  • निश्चय (m.) → sự quyết định
  • नेतृ (m.) → người dẫn đầu
  • पक्षिन् (m.) → chim
  • परिव्राजक (m.) → du tăng
  • पितृ (m.) → cha
  • प्रणाम (m.) → sự cúi mình xuống để chào
  • प्रार्तना (f.) → nguyện vọng
  • बाण (m.) → mũi tên
  • ब्रह्मभाव (m.) → hợp nhất với Brahman, thể nhập B.
  • ब्रह्मसूत्र (n.) → thánh kinh của trường phái Vedānta
  • भगवद्गीता (f.) → bhagavadgītā, Chí tôn ca
  • भर्तृ (m.) → người chồng
  • भाष्य (n.) → bình giải, luận giải
  • भ्रातृ (m.) → em trai
  • मन्त्रिन् (m.) → bộ trưởng
  • मातृ (f.) → mẹ
  • योगिन् (m.) → Du-già sư
  • रक्षितृ (m.) → người bảo hộ, người hộ vệ
  • वर्ष (n.) → năm, cơn mưa
  • विद्या (f.) → khoa học, minh, sự hiểu biết
  • वेदान्त (m.) → “kết thúc của Veda”, tên của một hệ thống triết học Ấn Độ
  • संन्यास (m.) → từ khước, thoát li
  • संसार (m.) → luân hồi, vòng sinh tử
  • स्वसृ (f.) → chị/em gái

Phó từ/Hình dung từ[sửa]

  • कष्ट → bắt buộc, (với instr.) buộc phải…
  • द्वात्रिंश → 32
  • धनिन् → giàu
  • बलिन् → mạnh, có sức
  • मुख्य → thuộc về phần chính
  • सुखिन् → hạnh phúc
  • सर्वतः → khắp nơi
  • उच्चैः → lớn (âm thanh), ồn

Bài văn/Luyện tập[sửa]

Tập dịch[sửa]

1. स्वभर्तारं दृष्ट्वा भार्या तं नतवती। 2. पुत्रः पितुर्वचनं स्मृत्वा पाठं पठति। 3. क्षत्रिया नेतारमनुगम्य क्षेत्रं प्राविशन्‌। 4. साधवो दातृभ्यो धनं लब्ध्वा तुष्यन्ति। 5. रामो नप्तॄन्‌ हूत्वा कथां कथयति। 6. भर्तारो भार्याभिः सह मन्दिरं गत्वा देवान्‌ पूजयन्ति। 7. मातरो दुहितृभिः सह द्वारे स्थित्वा मार्गं पश्यन्ति। 8. बालो भ्रात्रे स्वसृभ्यश्च पुस्तकं दर्शयति। 9. रामस्य भ्रातरः स्वसारश्च नद्यां स्नानं कृत्वा तीर उपाविशन्‌। 10. मम मातुः स्वसा रामस्य भ्रातुर्भार्या। 11. दुहितरो मातॄः कुशलं पृच्छन्ति। 12. रामः स्वभ्रात्रा सह वन उषित्वा पशून्‌ मृगयते। 13. नरा महान्तं बलिनं वीरं रामं प्रशंसन्ति। 14. अरण्ये योगिनो वृक्षाणामध उपविश्य ध्यानं कुर्वन्ति। 15. तपस्विनः सर्वं शरीरं भस्मना लिप्यते। 16. धन्वी बाणेन पक्षिणं व्यापादयति। 17. राजा मन्त्रिणो वचनमाकर्णयति। 18. सुखिनो बाला उद्याने क्रीडन्ति। 19. नगरे बहवो धनिनो वणिजो वसन्ति। 20. बालानामागमनात्‌ पक्षिण उदपतन्‌। 21. तपस्विभ्यो धनिनो धनं यच्छन्ति। 22. योगिना मोक्षो लब्धः।

“Thánh Śaṅkara (Śrī Śaṅkarācārya)”[sửa]

1. अस्ति केरलेषु कश्चिद् ग्रामः। 2. स नद्यास्तीरे वर्तते। 3. तस्मिन्‌ ग्रामे श्रीशङ्करो नामाचार्योऽजायत। 4. माता तं पुत्रं पालायति स्म। 5. सा पुत्रं गृहिणं कर्तुमैच्छत्‌। 6. किंतु शङ्करः संसारं त्यक्तुमैच्छत्‌। 7. स मातरं प्रार्थयत। 8. मातः मह्यं संन्यासो रोचते। तदर्थं मह्यमनुमतिं प्रयच्छेति। 9. माता पुत्रस्य प्रार्थनां न स्वीकृतवती। 10. एकदा स्नातुं नदीं गतः शङ्करो नक्रेणाक्रान्तः। 11. उच्चैर्विक्रुष्टवान्‌ शङ्करः। 12. क्रोशमाकर्ण्य नद्यास्तीरं गता माता नक्रेणाक्रान्तं पुत्रं दृष्टवती। 13. यदा शङ्करो मातरमपश्यत्‌ तदावदत्‌। 14. मातः यदि मम संन्यासमनुमंस्यसे तर्ह्यहं नक्रान्मुच्येयेति। 15. माता कष्टेन प्रत्यवदत्‌। 16. वत्स यथा तुभ्यं रोचते तथा कुर्विति (कुरु imper. 2. pers. sing. của कृ)। 17. सद्यो नक्रान्मुक्तः शङ्करो मातुश्चरणयोः प्रणामं कृतवान्‌। 18. मात्रा च तस्य निश्चयः स्वीकृतः। 19. मातः कदापि पुनरागमिष्यामीति प्रतिज्ञाय शङ्करो गृहान्निर्गतः। 20. देशाद् देशं गत्वा परिव्राजकैः सह काशीमागतः। 21. तत्र कस्माच्चिदाचार्याद् वेदान्तस्य विद्यामधिगतवान्। 22. अनन्तरं स मुख्यानामुपनिषदां ब्रह्मसूत्राणां भगवद्गीतायाश्च भाष्याणि कृतवान्‌। 23. ततः स स्वस्याद्वैतवेदान्तस्य विद्यामुपदिष्टवान्‌। 24. बहवो जनास्तस्य शिष्या अभवन्‌। 25. सर्वदा मात्रा स्मृतः शङ्करो तस्या मरणस्य काले तस्याः समीपमागच्छत्‌। 26. तस्मिन्‌ क्षणे कर्तव्यं सर्वं कृत्वा स पुनः प्रातिष्ठत्‌। 27. सर्वतः परिभ्रम्य स जनानुपदिश्य द्वात्रिंशे वर्षे ब्रह्मभावमुपगतः॥

Liên kết đến đây

Xem thêm liên kết đến trang này.