Giáo trình Phạn văn I—Bài tập—Bài thứ 22
Giáo trình Phạn văn I - Liên tự - Phái sinh từ - Thân phụ âm bất quy tắc - Số từ - Từ vị - Bảng tra thời thái và hình thức của động từ theo tiếp vĩ âm - Bảng tra gốc động từ theo thân |
||||||||
|
Ngữ
pháp:
01
-
02
-
03
-
04
-
05
-
06
-
07
-
08
-
09
-
10
-
11
-
12
-
13
-
14
-
15
-
16
-
17
-
18
-
19 |
|||||||
|
Bài
tập:
01
-
02
-
03
-
04
-
05
-
06
-
07
-
08
-
09
-
10
-
11
-
12
-
13
-
14
-
15
-
16
-
17
-
18
-
19 |
Mục lục
Từ vị[sửa]
Động từ[sửa]
- आदिश् (6) आदिशति → ra lệnh
- उद्यम् (1) उद्यच्छति → cố gắng
- दण्ड् (10) दण्डयति → phạt
- धाव् (10, caus.) धावयति → giặt, rửa
- नमस्कृ (8) नमस्करोति → chào hỏi
- निधृ (1,10) निधरति/ निधारयति → đặt vào (đi với loc.)
- निःगम् (1) निर्गच्छति → đi ra, xuất hiện
- परिदंश् (1) परिदशति → cắn nát
- पर्यव–ईक्ष् (1) पर्यवेक्षते → quản lí, canh chừng
- पीड् (10) पीडयति → hành hạ
- प्रबुध् (1) प्रबोधति → thức dậy
- प्रयम् (1) प्रयच्छति → đưa, trao, mời
- प्रसृ (10) प्रसारयति → lan rộng
- भिक्ष् (1) भिक्षते → cầu xin
- स्ना (10) स्नापयति → tắm (cho ai)
Danh từ[sửa]
- अन्धकार (m.) → tối đen
- अरण्य (n.) → rừng, a-lan-nhã
- इन्धन (n.) → củi đốt
- केसर (m.) → tóc, bờm
- कौपीन (n.) → cái khố
- क्षुधा (f.) → cơn đói
- खल (m.) → kẻ ác
- चिन्ता (f.) → sự lo nghĩ
- दोषा (f.) → buổi tối
- धनिक (m.) → giàu
- प्रतिज्ञा (f.) → quả quyết, chấp nhận
- प्रयत्न (m.) → sự cố gắng
- प्रयोजन (n.) → cái dụng, cái lợi
- मार्जार (m.) → con mèo
- विश्वास (m.) → niềm tin, tín tâm
- सायंकाल (m.) → buổi tối
Phó từ/Hình dung từ/Nhàn đầu từ (interjection)[sửa]
- अलस (adj.) → chậm chạp, mệt mỏi
- क्रुद्ध (adj.) → ppp của क्रुध् (4) क्रुध्यति || nổi giận
- तावत् (adj.) → cứ lớn như, cứ to như (nom. sing. तावान्)
- शुद्ध (adj.) → sạch, thanh tịnh
- अतः परम् → và tiếp theo như thế, sau này
- अन्तर् (adv.) → trong phạm vi…, bên trong của…
- अलम् (adv.) → đủ
- अहो इदानीम् (adv.) → bây giờ đây
- कार्त्न्येन → hoàn toàn, toàn phần
- दिवारात्रम् → ngày và đêm
- नूनम् → chắc chắn
- भो → “Này anh bạn!”
Bài văn/Luyện tập[sửa]
Bài tập về gerund[sửa]
1. नृपेण देशो रक्षितव्यः। 2. युष्माभिस्तानि पुस्तकानि पठितव्यानि। 3. पाठशालायां शिष्यैर्गुरवो नम्याः। 4. बालेन क्षीरं पातव्यम्। 5. मम मित्रेण देयं धनं नालभे। 6. अद्य सेवकेन वनादिन्धनमानेतव्यम्। 7. युद्धे क्षत्रियैः शत्रवो जेतव्याः। 8. अलसाः शिष्या गुरुणा दण्डयितव्याः। 9. अस्माभिरधुना तार्यां नदीं पश्यामि। 10. मया खादनीयं फलम् मम मित्रेण खादितम्। 11. शिष्यैः पाठा लेखितव्याः। 12. सर्वदा शुद्धमन्नं खादितव्यम्। 13. रामेण गमनीयं नगरं दूरेऽस्ति। 14. यदा शत्रव आक्रामन्ति तदा योधैर्न धावितव्यम्। 15. मया पाठ्यं पुस्तकमद्यालभे। 16. युस्माभिः सर्वदा सत्यं वदितव्यमिति गुरुरुपदिशति। 17. त्वया करणीयं कार्यं मया कृतम्।
“Người tu khổ hạnh và cái khố”[sửa]
1. कस्मिंश्चिद् ग्रामे कश्चिद् मुनिर्वसति स्म। 2. तस्य गृहे भार्या बन्धवश्च नासन्। 3. तस्मिन् ग्रामे कश्चिद् धनिकः प्रत्यवसत्। 4. अनुदिनं मुनिस्तस्य गृहे भिक्षित्वा भोजनमलभत। 5. दिवारात्रं मुनिना ध्यानं जपश्च कृते। 6. तस्य वस्त्रं कौपीनमेव। 7. तस्य द्वे कौपीने आस्ताम्। प्रतिदिनं स एकं कौपीनमधारयच्चान्यं कौपीनमधावयत्। 8. एकदा मुनिः स्नानं कर्तुं नदीमगच्छत्। 9. एकं कौपीनं धावयित्वा तत् तेन भूमौ प्रसारितम्। 10. यावत् कौपीनं शुष्यति तावद्ध्यानं करोमीति मुनिना चिन्तितम्। 11. सहसा कश्चिद् मूषक आगम्य कौपीनं पर्यदशत्। 12. मुनिरक्रुध्यत्। कौपीनं मूषकाद्रक्षितुं स कंचिद् बिडालमलभत। 13. अनुदिनं बिडालाय क्षीरं दातुं न शक्नोति स्म। 14. तस्माद् मुनिः प्रतिदिनं तं धनिकं गत्वा क्षीरमयाचत। एवं स बिडालाय किंचित् क्षीरमयच्छत्। 15. तदा मुनिरचिन्तयत्। बिडालाय क्षीरं दातुं मया धेनुर्लब्धव्येति। 16. अतो मुनिः काम्चिद् धेनुमलभत। 17. स प्रभाते सायंकाले च बिडालाय क्षीरमयच्छत्। 18. दिवसे दिवसे धेनुं स्नापयित्वा तस्यै तृणमानयत्। 19. किंत्वधुना ध्यानं कर्तुं मुनेः कालो नासीत्। 20. तस्मात् तेनैकः सेवक आनीयत। किंतु सेवकः सम्यक् कार्यं न करोति स्म। 21. एकस्मिन् दिवस आगच्छदन्यस्मिन् दिवसे नागच्छत्। 22. मुनिरचिन्तयत् किम् करोमि। केनचिज्जनेन सेवकः पर्यवेक्षितव्यः। 23. यदा सेवको नागच्छति तदान्येन जनेन धेनुः सेवितव्येति। 24. ततो मुनिना काचित् कन्या पर्यणीयत। 25. एकदा रात्रौ मुनिर्भूमौ निषद्य ध्यानं करोति स्म। 26. तस्य भार्याक्रन्दत्। सदा ध्यानं करोषि। त्वं मां न मन्यसे। 27. मां व्यस्मरः। कस्माद् मां पर्यणय इत्यपृच्छत्। 28. मुनिरचिन्तयत्। किमर्थं तां पर्यणयम्। तया धेनुः सेवितव्या। 29. किमर्थं धेनुः बिडालाय क्षीरं दातव्यम्। 30. किमर्थं बिडालः केनचिद् मूषको मारयितव्यः। 31. किमर्थं मुषको मारयितव्यः कौपीनं रक्षतव्यम्। 32. एकस्मात् कौपीनात् तावानयं प्रयत्न इति। 33. मुनिः क्रोधाद्द्वे अपि कौपीने अपक्षिप्य कार्त्स्न्येन तपस्याम् करोति स्म।
“Sư tử và mèo”[sửa]
1. कस्मिंश्चिदरण्ये कश्चन सिंहः प्रतिवसति स्म। 2. एकदा स गुहाया अग्रे भूमौ निषद्य शयनं करोति स्म। 3. तदा स्वबिलादागम्य कश्चिद् मूषकस्तमुपगम्य तस्य केसरानदशत्। 4. ततः प्रबुद्धेन सिंहेन दष्टाः केसरा अदृश्यन्त। 5. तदा तेन चिन्तितम् अहो मम केसरा कृत्ताः। 6. नूनमेतद् कस्यचिद् मूषकस्य कार्यम्। 7. किमधुना मया कर्तव्यम्। 8. एवमस्तु मार्जारो मूषकस्य शत्रुः तस्मादधुना किंचिद् मार्जारं पालयिष्यामि। 9. स मार्जारस्तं मूषकं मार्गयित्वा भक्षयिष्यतीति। 10. अथ स क्रुद्धः सिंहः किंचिद् ग्रामं गतः। 11. मार्गे तेन कश्चिन्मार्जारो दृष्टः। 12. तस्य समीपं गत्वा सिंहस्तं मार्जारमेवमवदत्। 13. भो मित्र मार्जार त्वां नमस्करोमि। मम वचनमाकर्णय। 14. मम गुहायाः समीपे कश्चन मूषकः प्रतिवसति। 15. शयनं कृतस्य मम केसरास्तेन दष्टाः। 16. एष मूषकोऽपहर्तव्यः तस्मान्मया सह वस। 17. अहं ते प्रभूतं भोजनमपि दास्यामीति। 18. मार्जारेण प्रतिभाषितम्। 19. यथा त्वमादिशसि तथा करोमि। अहं त्वया सह वत्स्यामीति। 20. सिंहो मार्जारेण सह स्वगुहामगच्छत्। 21. यदा द्वौ गुहामगच्छतां तदा मार्जारोऽवदत्। 22. अहं क्षुधया पीडितः। 23. त्वया मह्यं भोजनं दातव्यमिति। 24. सिंहेन तस्यै मांसखण्डानि दत्तानि। 25. प्रतिदिनं तानि भक्षयित्वा मार्जारेण तत्र सुखमवस्यत। 26. सिंहस्य गुहामागतं मार्जारं दृष्ट्वा मूषको भयाद्बिलाद्बहिर्नागतः। 27. अतोऽधुना सिंहेन मूषकाद्भयं विना तत्रोषितम्। 28. मूषिको भोजनेन विना बिलस्यान्तर्वसितुं न समर्थ आसीत्। 29. क्षुधया पीडितेन मूषकेन चिन्तितम्। 30. अधुना किं करिष्यामि भोजनेन विना कथं जीविष्यामि। 31. यदि मया बिलाद्बहिर्गम्यते तर्हि मार्जारेणाहं भक्ष्ये। 32. अतोऽन्धकारे बहिर्गत्वा भोजनमन्विष्यामि। 33. अन्धकारे मार्जारो मां द्रष्टुं न शक्नोतीति। 34. एवं चिन्तयित्वा भोजनं लब्धुं मूषको रात्रौ बिलान्निर्गतः। 35. सद्यः स मार्जारेण दृष्टः। 36. मार्जारस्तं गृहीत्वा सिंहमुपगम्य तमवदत्। 37. भो मृगराज पश्य। तव शत्रुरयं मूषको मया गृहीतः। 38. अलमिदानीं तव चिन्तया अद्य प्रभृत्यावां सुखेन वसाव इति। 39. एवमुदित्वा तेन स मूषको भक्षितः। 40. तदा सिंहोऽचिन्तयत् इदानीमनेन मार्जारेण मे किं प्रयोजनम्। 41. अतोऽस्मै परं भोजनं न दास्यामीति। 42. ततः प्रभृति सिंहेन मार्जाराय भोजनं न दत्तम्। 43. एकदा क्षुधया पीडितो सिंहमवदत्। 44. मित्र त्वया स्ववचनं विस्मृतम्। 45. त्वं स्ववचनं स्मर मह्यं भोजनं प्रयच्छेति। 46. तदा सिंहः प्रत्यभाषत हे मूर्ख त्वया मे न प्रयोजनम्। 47. न किंचन स्मरामि गच्छेति। 48. तदा मार्जारोऽवदत् एवमस्तु गमिष्यामि। 49. त्वया पापं कृतम् त्वया हि कृता प्रतिज्ञा विस्मृतेति। 50. तद् वचनमाकर्ण्य क्रुद्धेन सिंहेन तं मार्जारं मारयितुमुद्यतम्। 51. किंतु मार्जारः सत्वरं किंचिद् वृक्षमारुह्य सिंहमवदत्। 52. खलस्य मधुरेषु वचनेषु न कदाचिद् विश्वासः कर्तव्य इति।
Liên kết đến đây
- Giáo trình Phạn văn I
- Giáo trình Phạn văn I—Ngữ pháp—Bài thứ 01
- Giáo trình Phạn văn I—Ngữ pháp—Bài thứ 02
- Giáo trình Phạn văn I—Bài tập—Bài thứ 01
- Giáo trình Phạn văn I—Bài tập—Bài thứ 02
- Giáo trình Phạn văn I—Ngữ pháp—Bài thứ 03
- Giáo trình Phạn văn I—Bài tập—Bài thứ 03
- Giáo trình Phạn văn I/Từ vị
- Giáo trình Phạn văn I/Liên tự
- Giáo trình Phạn văn I/Số từ
- Xem thêm liên kết đến trang này.