Giáo trình Phạn văn I—Bài tập—Bài thứ 25

Từ VLOS
Bước tới: chuyển hướng, tìm kiếm

 Giáo trình Phạn văn I - Liên tự - Phái sinh từ - Thân phụ âm bất quy tắc - Số từ - Từ vị - Bảng tra thời thái và hình thức của động từ theo tiếp vĩ âm - Bảng tra gốc động từ theo thân

 

Ngữ pháp: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

 

Bài tập: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

Từ vị[sửa]

Động từ[sửa]

  • अपनी (1) अपनयति → lấy mất, chiếm đoạt
  • आनी (10) आनाययति → khiến người mang đến
  • तुष् (10) तोषयति → làm hài lòng, làm cho vui
  • पॄ (10) पूरयति → làm đầy, làm toại nguyện
  • प्रकाश् (1) प्रकाशते → sáng chói, chiếu sáng
  • प्रनम् (1) प्रणमति → chào hỏi, cúi mình chào
  • प्रविश् (10) प्रवेशयति → khiến cho bước vào
  • प्रतिदृश्, प्रतिदृश्यते → xuất hiện
  • वृ (10) वरयति → chọn, lựa, cầu hôn
  • संतुष् (4) संतुष्यति → hài lòng, vừa ý
  • समाश्वस् (10) समाश्वसयति → trấn an, an ủi

Danh từ[sửa]

  • अध्वन् (m.) → con đường, chuyến đi, hành trình
  • अश्मन् (m.) → đá
  • आत्मन् (m.) → ngã, tự mình, cái ta
  • कनक (n.) → vàng
  • कर्मन् (n.) → nghi lễ, hành động
  • कुमारी (f.) → cô bé, con gái
  • कुशल (n.) → may mắn, thiện lành
  • चर्मन् (n.) → bộ lông thú
  • नामन् (n.) → tên, danh hiệu
  • पिपासा (f.) → sự khát nước
  • पुनर्-जन्मन् (n.) → tái sinh
  • भस्मन् (n.) → tro
  • मणि (n.) → viên ngọc, ngọc ma-ni
  • मूर्धन् (m.) → cái đầu, đỉnh điểm
  • राजन् (m.) → vua
  • वर (m.) → mong muốn, वरं वरयति = cho phép người khác ước nguyện
  • वस्तु (n.) → vật
  • शाला (f.) → phòng
  • सत्कार (m.) → hiếu khách, hảo tâm, tiếp đón, chiêu đãi
  • सिंहासन (n.) → chỗ sư tử ngồi, ngai vua

Phó từ/hình dung từ[sửa]

  • परम → cao nhất, tối thượng
  • वास्तव → hiện thật, thật sự
  • सौवर्ण → có mầu vàng, thuộc về vàng (kim)
  • वस्तुतः → thật sự là…

Bài văn/Luyện tập[sửa]

Luyện dịch[sửa]

1. राजा स्वभार्यां ह्वयति। 2. राजानः प्रासादेऽक्षैर्दीव्यन्ति। 3. बालानां नामानि न स्मरामि। 4. कवयो राजानं प्रशंसन्ति। 5. क्षत्रियाणां कर्माणि प्रशंस्येरन्‌ (pass. opt.)। 6. अध्वनि बहवः पथिका दृष्टाः। 7. ऋषय आत्मनो ज्ञानेन मोक्षं लभन्ते। 8. आत्मानं प्रशंसति राजा। 9. कर्मणो हेतुना दुष्टाः पुनर्जन्मनि मानुषेषु न जायन्ते। 10. राज्ञो मूर्ध्नि मणयः प्रकाशन्ते। 11. राज्ञा सह क्षत्रिया युद्धाय गच्छन्ति। 12. साधुः स्वशरीरं भस्मना लिम्पति। 13. वने व्याधा व्याघ्राणांश्चर्मभ्यो मारयन्ति। 14. कविभीराज्ञे गीतानि गीयन्ते।

“Vua Mahīdāsa tham lam”[sửa]

1. कस्मिंश्चिद् देशे कश्चिद् राजासीत्‌। 2. तस्य नाम महीदासः। 3. सोऽतीव लुब्ध आसीत्। राजापि स दरिद्र इव जीवति स्म। 4. एकदा सोऽपि मुनिर्महीदासस्य प्रासादमागम्य तं द्रष्टुमैच्छत्‌। 5. एकः किङ्करो राजानमागम्यावदत्‌। 6. देव कश्चिन्मुनिः प्रासादाद्बहिः स्थित्वा त्वां द्रष्टुमिच्छतीति। 7. सद्यस्तं मुनिं प्रवेशयेति राजावदत्‌। 8. यदा स मुनिः प्रासादं प्राविशत्‌ तदा महीदासः सिंहासनादुत्थाय तं मुनिं प्राणमत्‌। 9. मुनी राज्ञा फलैः कुसुमैश्च पूजितः। 10. एवं राजा तं मुनिं सत्कारेणातीवातोषयत्‌। 11. राज्ञः सत्कारेण संतुष्टो मुनिरवदत्‌। 12. राजन्‌ कुशलमस्तु ते। 13. त्वयेष्टं वरं वरयेति। 14. एवं मुनिनाभिभाषितः स राजा लोभेनावदत्‌। 15. हे मुने मया धनमिष्यते। मया यत्‌ स्पृश्यते तत्‌ सद्यः सौवर्णं वस्तु भवत्विति। 16. तव वरं पूरयामि। त्वया यत्‌ स्पृश्यते तत्‌ कनकं भविष्यतीत्युदित्वा मुनिना निरगम्यत। 17. मुनेर्वचनं सुखेनाकर्णितेन महीदासेन स्वशालायां स्थितानि सर्वाणि वस्तूनि दृष्ट्वा स्पृष्टानि। 18. एवं राज्ञा स्पृष्टानि वस्तूनि सद्यः सौवर्णानि भूतानि। 19. तद् दृष्ट्वा तेनातीवातुष्यत। 20. तदा तस्य पिपासा जाता। तेन जलं पातुमुद्यतम्‌। 21. यदा तेन जलं स्पृष्टं तदा तज्जलमपि सौवर्णमभवत्‌। 22. राज्ञा चिन्तितम्। तेन मुनिना सत्यमुदितमिति। 23. तस्मिन्नेव क्षणे राजकुमारी किंचित्‌ कुसुममादाय तत्रागता। 24. जनक मयानीतं सुन्दरं कुसुमं पश्येत्यवदत्‌। 25. हस्तेन स्पृष्ट्वा राज्ञा तत्‌ कुसुममीक्षितम्‌। 26. तेन स्पृष्टं कुसुमं सद्यः सौवर्णं जातम्‌। 27. तत्‌ सौवर्णं कुसुमं दृष्ट्वा कुमारी दुःखिताभवत्‌। 28. तद् दृष्ट्वा स्वपुत्रीं समाश्वासयितुं कामेन नृपतिना तस्या हस्तोऽस्पृश्यत। 29. सद्यो राजकुमारी कनकमभवत्‌। 30. स्वपुत्र्याः सौवर्णं रूपं दृष्ट्वा महीदासोऽतीवाशोचत्‌। 31. तदा राज्ञः पुरतः स मुनिः प्रत्यदृश्यत। 32. दुःखितेन नृपतिना सोऽभिभाषितः। 33. हे मुने यं वरं त्वं कृपया मह्यं प्रायच्छः स मद् अपनेतव्यः। 34. इयं पुत्री मम जीवनम्। अनया विना जीवितुं न शक्नोमीति। 35. मुनिरवदत्। महीदास लोके त्वया सुवर्णं परमं मतम्‌। 36. किंतु सुवर्णस्य लोभो दुःखस्य कारणम्‌। 37. वस्तुतः सुवर्णं न वास्तवम्‌। 38. ईश्वर एव वास्तवः। तस्मात्‌ सुवर्णं मा चिन्तय। 39. यदीश्वरं चिन्तयसि तर्हि सुवर्णं न वास्तवमिति बोधसि। 40. तद् बुद्ध्वा सर्वाणि वस्तूनि जलेनास्यां शालायां सिञ्च। 41. तदा सर्वाणि वस्तूनि यथापूर्वं वर्तेरन्निति। 42. भूमौ निषद्य हृदय ईश्वरं चिन्तयित्वा महीदास उद्यानाज्जलमानाययत्‌। 43. सर्वाणि सौवर्णानि वस्तूनि राज्ञा जलेन सिक्तानि। 44. तदा जलेन सिक्तानि वस्तूनि मौलानि रूपाण्यलभन्त। 45. राजकुमार्यपि मन्दं हसित्वा स्वजनकमुपगम्य तस्य हृदयमतोषयत्‌।

Liên kết đến đây

Xem thêm liên kết đến trang này.