Giáo trình Phạn văn I—Bài tập—Bài thứ 23

Từ VLOS
Bước tới: chuyển hướng, tìm kiếm

 Giáo trình Phạn văn I - Liên tự - Phái sinh từ - Thân phụ âm bất quy tắc - Số từ - Từ vị - Bảng tra thời thái và hình thức của động từ theo tiếp vĩ âm - Bảng tra gốc động từ theo thân

 

Ngữ pháp: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

 

Bài tập: 01 - 02 - 03 - 04 - 05 - 06 - 07 - 08 - 09 - 10 - 11 - 12 - 13 - 14 - 15 - 16 - 17 - 18 - 19
20 - 21 - 22 - 23 - 24 - 25 - 26 - 27 - 28 - 29 - 30 - 31 - 32 - 33 - 34 - 35 - 36 - 37 - 38 - 39 - 40

Từ vị[sửa]

Động từ[sửa]

  • आछद् (10) आच्छादयति → che đậy, che dấu
  • आसद् (1) आसीदति → ngồi, ngồi xuống
  • दीप् (4) दीप्यते → chiếu sáng, rực rỡ
  • निक्षिप् (6) निक्षिपति → quăng đi, quăng xuống, vất vào
  • निविद् (10) निवेदयति → cho biết, báo cáo
  • भी (10) भीषयति → làm cho sợ
  • प्रतियम् (1) प्रतियच्छति → trả lại
  • मील् (1) मीलति → nhắm mắt
  • लज्ज् (6) लज्जते → e thẹn
  • संभ्रम् (1/4) संभ्रमति – संभ्राम्यति → bị làm rối loạn

Danh từ[sửa]

  • अनृत (n.) → không thật, phi chân thật
  • अमात्य (m.) → quan, bộ trưởng
  • असंभव (n.) → sự bất khả, không thể
  • असत्य (n.) → sự giả dối, không thật thà
  • असुर (m.) → a-tu-la
  • अस्थि (n.) → xương
  • आक्षेप (m.) → kháng biện
  • आयुध (n.) → vũ khí
  • आयुस् (n.) → mệnh căn, sinh khí
  • उपयोग (m.) → sự sử dụng, cái dụng
  • उपनिषद् (f.) → áo nghĩa thư, một thể loại sách Veda
  • उपार्जन (n.) → phương tiện sinh nhai, kế sống
  • उषस् (f.) → bình minh
  • ऋत्विज् (m.) → mục sư, đạo sư
  • औदार्य (n.) → lòng phóng khoáng, tâm rộng rãi
  • कृपा (f.) → lòng thương hại, đồng cảm
  • क्रीडा (f.) → trờ chơi, chơi
  • गायन (n.) → bài ca, sự ca hát
  • गुञ्जन (n.) → tiếng vo ve
  • जीवित (n.) → cuộc sống, cuộc đời
  • ज्योतिस् (n.) → ánh sáng
  • तपस् (n.) → khổ tu, khổ hạnh
  • तपोवन (n.) → rừng người tu khổ hạnh
  • तमस् (n.) → tối tăm, đen tối
  • तुला (f.) → cái cân
  • तेजस् (n.) → bóng loáng, sáng rực rỡ
  • धनुस् (n.) → cây cung
  • नमस् (n.) → sự tôn kính
  • निलय (m.) → chỗ trú, chỗ ở
  • निवेदन (n.) → bảng tin, bảng báo cáo
  • नेत्र (n.) → mắt
  • पीडन (n.) → sự hành hạ
  • प्रजापति (m.) → tên khác của Brahma
  • प्रभु (m.) → đấng tối cao
  • मनस् (n.) → tâm, trí, tư duy
  • रोदन (n.) → khóc lóc, than thở
  • वज्र (m.) → kim cương chử
  • वज्रायुध (n.) → với kim cương chử là vũ khí
  • वत्स (m.) → con bê, bạn yêu quý! (dạng voc.)
  • वणिज् (m.) → thương gia
  • वाच् (f.) → tiếng nói, lời nói
  • वैकुण्ठ (m.) → thần Viṣṇu, chỗ cư trú của thần Viṣṇu
  • वृत्र (m.) → tên của một loài la-sát
  • शरण (n.) → sự bảo vệ
  • शिरस् (n.) → cái đầu
  • शिवा (f.) → đá, khối đá
  • श्येन (m.) → con diều hâu
  • समाधि (m.) → tam-ma-địa, định
  • समिध् (f.) → củi đun
  • सरस् (n.) → hồ, ao
  • साधन (n.) → thành tựu
  • साहाय्य (n.) → sự giúp đỡ
  • हरि (m.) → biệt danh của Viṣṇu

Phó từ/Nghi vấn phân từ/Số từ[sửa]

  • तार (adj.) → lớn (âm thanh), xuyên suốt
  • बहुमूल्य (adj.) → có giá trị
  • रमणीय (adj.) → dễ thương, dễ mến
  • शङ्कित (adj.) → lo nghĩ
  • शाश्वत (adj.) → lâu dài, bền bỉ
  • संनिहित (adj.) → có mặt, hiện diện
  • समक्षम् (adv.) → dưới sự hiện diện của… (đi với gen.)

Bài văn/Luyện tập[sửa]

Luyện dịch[sửa]

1. नमः शिवाय नमः शिवायेति बालो जपति। 2. कृष्णस्य शिरसि तेजो दृश्यते। 3. क्षत्रिया धनुर्भिः शरान्‌ मुञ्चन्ति। 4. गिरिषु बहूनि सरांसि विद्यन्ते। 5. ऋषिस्तपसा हृदये मुक्तिं लभते। 6. सूर्यस्य ज्योतिषा तमोऽपह्रियते। 7. नद्यास्तीरे साधव उषसं पश्यन्ति। 8. अद्य वनात्‌ सेवकेन समिदानेतव्या। 9. रामो हि देवान्‌ समिधा यजति। 10. ऋषय उपनिषत्सु मोक्षस्य मार्गमुपदिशन्ति। 11. ऋत्विज उपनिषदः पठन्ति। 12. ऋत्विग्भिः सूक्तानि पठितानि।

“Tấm lòng cao thượng của trí giả Dadhīci”[sửa]

1. पुरा वृत्रो नाम कश्चिदसुर आसीत्‌। तेन देवा अतीव पीडिताः। 2. साहाय्यं लब्धुं देवाः प्रजापतिमगच्छन्‌। 3. ते प्रजापतेः पुरतः स्थित्वा तमनमन्‌। 4. तान्‌ समागतान्‌ देवान्‌ दृष्ट्वा प्रजापतिरागमनस्य कारणमपृच्छत्‌। 5. ते प्रत्यवदन्‌। प्रभो वृत्रो नाम कश्चिदसुरोऽस्मानतीव पीडयति। 6. तस्य पीडनं वयं सोढुं न समर्थाः। अतो वयमत्रागता इति। 7. प्रजापतिस्तां वाचमाकर्ण्य देवानवदत्‌। 8. हरिरेव युष्मान्‌ रक्षितुम्‌ समर्थः। तं शरणं गच्छतेति। 9. तदा प्रजापतिर्देवैः सह हरेर्निलयं वैकुण्ठं गत्वा हरये सर्वं वृत्तान्तमकथयत्‌। 10. सर्वमाकर्ण्य हरिः प्रत्यभाषत। ऋषिं दधीचिमुपगम्य देवैस्तस्मात्‌ कानिचिदस्थीनि याचितव्यानि। 11. तेन ऋषिना नूनं कानिचिदस्थीनि दास्यन्ते। 12. तैरस्थिभिस्ते किंचिद् वज्रायुधं रचयन्तु। 13. तेन शस्त्रेण वृत्रं मारयितुं सर्वाञ्चासुराञ्जेतुं समर्था भविष्यन्तीति। 14. दधीचिर्नाम स ऋषिः कस्मिंश्चित्‌ तपोवने वसति स्म। 15. तत्‌ तपोवनं विहगानां गायनेन कपीनां क्रीडया अलीनां गुञ्जनेनातीव रमणीयमासीत्‌। 16. तत्र बहवो मुनय आसद्य तपस्यां कुर्वन्ति स्म। 17. तत्‌ तपोवनं सर्वे देवा गताः। 18. तत्र दधीचेराश्रमं प्रविश्यर्षिमपश्यन्। ऋषिः स्वज्योतिषस्तेजसा दीप्यते स्म। 19. इन्द्रो दधीचिना पृष्टः। किमर्थं यूयमत्रागता इति। 20. तदेन्द्रः प्रत्यभाषत। असुरेण वृत्रेण वयं पीड्यामहे। 21. तस्मात्‌ त्वां शरणमागताः। कृपया त्वमस्मभ्यं स्वास्थीनि प्रयच्छ। 22. तैरस्थिभिर्वयमायुधं रचयिष्यामः। तेन वयं वृत्रं मारयितुं समर्थाः भविष्याम इति। 23. इन्द्रस्य तद् वचनमाकर्ण्य दधीचिरतुष्यत्‌। 24. सोऽवदत्‌ अद्य मम जीवितस्य साधनम्‌। तस्मान्मम शरीरं युष्माकमुपयोगाय भवेत्‌। 25. अहं युष्मभ्यमिदं शरीरं प्रयच्छामि। स्वीकुरुतेति (imper 2. pers. pl.)। 26. तदा स नेत्रे मीलित्वा समाधिमगच्छत्‌। 27. देवास्तस्यास्थीन्यालभ्य तैर्वज्रायुधमरचयन्‌। 28. यदा देवास्तपोवनाद्बहिरागच्छन्‌ तदा वृत्रो मार्गे स्थित्वा तानभीषयत्‌। 29. तदा युद्ध इन्द्रस्तेन वज्रायुधेन वृत्रममारयत्‌। 30. एवं देवा दधीचेरौदार्येण वृत्रस्य भयान्मुक्ताः।

“Con trai của thương nhân và ông nhà giàu”[sửa]

1. कस्मिंश्चिन्नगरे कस्यचिद् वणिज एकः पुत्र आसीत्‌। 2. धनस्योपार्जनाय सोऽन्यं देशं गन्तुमैच्छत्‌। 3. तस्य गृहे काचिद् बहुमूल्या तुलासीत्‌। 4. स तां तुलां कस्यचिद् धनिकस्य गृहे निक्षिप्य चिरं देशाद् देशमभ्रमत्‌। 5. एवं स बहु धनमालभ्य पुनः स्वनगरं प्रत्यागतः। 6. धनिकस्य गृहं गत्वा स तमवदत्‌। 7. भो मम तुलां पुनर् मे प्रयच्छेति। 8. तदा स धनिकः प्रत्यभाषत। 9. हे मित्र अत्र नास्ति तव तुला। मम गृहे प्रभूता मूषकाः सन्ति। 10. तव तुला मूषकैर्भक्षिता। आगम्य पश्येति। 11. वणिक्पुत्रः (= वणिजः पुत्रः) चिन्तयित्वा प्रत्यवदत्‌। 12. नास्ति तव दोषः। एतस्मिंल्लोके किमपि शाश्वतं नासीत्‌। 13. एष लोक ईदृश एवास्ति। 14. दूरादागतोऽहं श्रान्तः। 15. अधुना स्नानाय नदीं गन्तुमिच्छामि। 16. यदि तवाक्षेपो नास्ति तर्हि तव पुत्रं मया सह नयामीति। 17. स धनिकः स्वपुत्रमाहूय तमवदत्‌। 18. वत्स एतन्मम मित्रं स्नानाय नदीं गच्छति। 19. त्वम्। तेन सह गच्छेति। 20. जनकस्य वचनमाकर्ण्य पुत्रस्तेन सह नदीं गतः। 21. नद्यास्तटे बहवो गुहा आसन्‌। 22. वणिक्पुत्रो नद्यां स्नानं कृत्वा तं धनिकस्य पुत्रं कस्यांचिद् गुहायां निक्षिप्य तस्या द्वारं शिलयाच्छाद्य सत्वरं धनिकस्य गृहं प्रत्यागतः। 23. तमेककं दृष्ट्वा स्वपुत्राय शङ्कितः स धनिकस्तमपृच्छत्‌। 24. मित्र कुत्रास्ति मे पुत्रः। कथयेति। 25. वणिक्पुत्रः प्रत्यवदत्। मित्र अहमतीव लज्जितोऽस्मि। 26. तव पुत्रं रक्षितुं न समर्थोऽभवम्‌। 27. नद्यास्तट उपविष्टस्तव पुत्रः केनचिच्छ्येनेनाह्रियतेति। 28. तदाकर्ण्य क्रुद्धो धनिकोऽवदत्। असत्यम्। अनृतं वदसि त्वम्‌। 29. यत्‌ त्वं वदसि तदसंभवम्‌। 30. श्येनो बालं हर्तुं समर्थो नास्ति। प्रयच्छ मे पुत्रम्‌। 31. अन्यथा नृपस्य सभायां गत्वा सर्वं निवेदयिष्यामीति। 32. वणिक्पुत्रोऽवदत्। मित्र सत्यमेतत्‌। 33. मम समक्षं तव पुत्रं श्येनोऽहरत्‌। 34. श्येनस्तव पुत्रं कुत्रानयदिति न बोधामि। 35. यदि नास्ति विश्वासो मम कथायां तर्हि गच्छ नृपस्य सभायां निवेदनं कर्तुमिति। 36. एवं द्वयोर्विवादः समभवत्‌। 37. धनिको वणिक्पुत्रं नीत्वा नृपस्य सभामगच्छत्‌। 38. सभां प्रविश्य तेन धनिकेन तारेण स्वरेण रोदनं कृतम्‌। 39. अमात्यस्तं रोदनस्य कारणमपृच्छत्‌। 40. धनिकेन सर्वं कथितम्‌। 41. ततोऽमात्यो वणिक्पुत्रमवदत्। भो प्रयच्छ धनिकाय तस्य पुत्रं। 42. कुत्रापि श्येनो बालं हर्तुं समर्थो नास्ति। 43. अस्मान्‌ मूर्खान्‌ मा मन्यस्व। 44. किमर्थमसत्यं वदसि। 45. त्वां कारागृहे क्षेप्स्यामि यदि त्वां तस्मै पुत्रं न प्रयच्छसीति। 46. तदनु वणिक्पुत्रः प्रत्यवदत्। असत्यं न वदामि। 47. यत्र मूषकास्तुलां भक्षयन्ति तत्र श्येनोऽपि बालं हरतीति। 48. तदाकर्ण्य संभ्रान्तोऽमात्योऽपृच्छत्‌। कथमेवमिति। 49. वणिक्पुत्रेण कथितं सर्वं वृत्तान्तमाकर्ण्य सभायां संनिहिता अहसन्‌। 50. धनिकस्तु लज्जितोऽभवत्‌। 51. ततोऽमात्यस्यादेशाद् धनिकः तां तुलां वणिक्पुत्राय प्रत्ययच्छत्‌। 52. वणिक्पुत्रश्च धनिकस्य पुत्रं तस्मै प्रत्ययच्छत्‌। 53. एवं तौ प्रसन्नावभवताम्‌।

Liên kết đến đây

Xem thêm liên kết đến trang này.